भजन
निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु,
लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम्।
अद्यैव वा मरणमस्तु युगान्तरे वा,
न्याय्यात् पथः प्रविचलन्ति पदं न धीराः।
(भर्तृहरिकृत- नीतिशतक, श्लो. ७९)
मत्तेभकुम्भदलने भुवि सन्तिः शूराः,
केचित् प्रचण्ड-मृगराज-वधेऽपि दक्षाः।
किन्तु ब्रवीमि बलिनां पुरतः प्रसह्य,
कन्दर्पदर्पदलने विरला मनुष्याः।।
(भर्तृहरिकृत- नीतिशतक, श्लो. ५८)
प्रारभ्यते न खलु विघ्नभयेन नीचैः,
प्रारभ्य विघ्नविहता विरमन्ति मध्याः।
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः,
प्रारभ्य चोत्तमजना न परित्यजन्ति।।
(भर्तृहरिकृत- नीतिशतक, श्लो. २६)
व्याघ्रीव तिष्ठति जरा परितर्जयन्ती,
रोगाश्च शत्रव इव प्रहरन्ति देहम्।
आयुः परिस्रवति भिन्नघटादिवाम्भो,
लोकस्तथाप्यहितमाचरतीति चित्रम्।।
(भर्तृहरिकृत- वैराग्यशतक, श्लो. ९६)
भिक्षाऽशनं तदपि नीरसमेकवारं
शय्या च भूः परिजनो निजदेहमात्रम्।
वस्त्रं च जीर्णशतखण्डमयी च कन्था,
हा-हा तदपि विषयान्न परित्यजन्ति।।
(भर्तृहरिकृत- नीतिशतक, श्लो. २६)
























