संगच्छध्वं संवदध्वं संवो मनांसि जानताम्।

0
42

संगठन सूक्तम्

संगच्छध्वं संवदध्वं सं
वो मनांसि जानताम्।

देवा भागां यथा पूर्वे
संजानाना उपासते।।

समानी व आकूतिः
समाना हृदयानि वः।
समानमस्तु वो मनो
यथा वः सुसहासति।।

समानो मन्त्रः समितिः
समानी समानं मनः सह चित्तमेषाम्।
समानं मन्त्रमभिमन्त्रये वः
समानेन वो हविषा जुहोमि।।

सं समिद्युवसे वृषन्नग्ने
विश्वानर्य आ।
इळस्पदे समिध्यसे
सनो वसून्याभर।।