पितः पातु विमलां तां आर्षलताम्

0
13
पितः पातु विमलां तां आर्षलताम्

पितः पातु

पितः पातु विमलां तां आर्षलताम्
१.
पाणिनी मुनिना व्याकृतिखनिना
अतिमतिधनिना हि पतञ्जलिना
मेधयाऽमलया विहितातिसेवाम्

२.
व्याकरणारुणैर्भूतपोहरणैः
विरजानन्दचरणैरार्षत्वभरणैः
भुवि भूयो भूषितां सुहितां नितराम्

३.
देवदयानन्दैरानन्दकन्दैः
वेदविद्यावन्द्यैस्तद्रसस्यन्दैः
लालितां पालितां तामतिसुफलाम्