आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायताम्।
आ ब्रह्मन् ब्राह्मणो
ब्रह्मवर्चसी जायताम्।
आ राष्ट्रे राजन्यः शूर इषव्योऽति
व्याधी महारथो जायताम्।
दोग्ध्री धेनुर्वोढाऽनड्वानाशुः
सप्तिः पुरन्धिर्योषा
जिष्णू रथेष्ठाः सभेयो
युवास्य यजमानस्य वीरो जायताम्।
निकामे निकामे नः पर्जन्यो
वर्षतु
फलवत्यो न ओषधयः पच्यन्तां
योगक्षेमो नः कल्पताम्।।










