हे विभो आनन्द-सिन्धो !
हे विभो आनन्द-सिन्धो !
मे च मेधा दीयताम् ।
यच्च दुरितं दीनबन्धो !
तच्च दूरं नीयताम् ।।
चञ्चलानि हीन्द्रियाणि
मानसं मे पूयताम् ।
शरणं याचे तावकीनं
सेवकम् अनुगृह्यताम् ।।
त्वयि च वीर्यं विद्यते यत्
तच्चमयि निधीयताम् ।
या च दुर्गुणदीनता मयि
सा तु शीघ्रं क्षीयताम् ।।
शौर्य-धैर्यं तैजसं च
भारते चेक्रीयताम् ।
हे दयामय! अयि अनादे !
प्रार्थना मम श्रूयताम् ।।










