संगच्छध्वं संवदध्वं सं वो मनांसि जानताम् ।
संगच्छध्वं संवदध्वं सं
वो मनांसि जानताम् ।
देवा भागां यथा पूर्वे
संजानाना उपासते ।।
समानी व आकूतिः
समाना हृदयानि वः ।
समानमस्तु वो मनो
यथा वः सुसहासति ।।
समानो मन्त्रः समितिः समानी
समानं मनः सह चित्तमेषाम् ।
समानं मन्त्रमभिमन्त्रये वः
समानेन वो हविषा जुहोमि ।।
सं समिद्युवसे वृषन्नग्ने
विश्वानर्य आ।
इळस्पदे समिध्यसे
सनो वसून्याभर ।।










