नमस्ते सतेते जगत्कारणाय,नमस्ते चिते सर्वलोकाश्रयाय ।
नमस्ते सतेते जगत्कारणाय,
नमस्ते चिते सर्वलोकाश्रयाय ।
नमो ऽद्वैततत्त्वाय मुक्तिप्रदाय,
नमो ब्रह्मणे व्यापिने शाश्वताय ।।
त्वमेकं शरण्यं त्वमेकं वरेण्यम्,
त्वमेकं जगत्पालकं स्वप्रकाशम् ।
त्वमेकं जगत्कर्तृ-पातृ-प्रहर्तृ,
त्वमेकं परं निश्चलं निर्विकल्पं ।।
भयानां भयं भीषणं भीषणानाम्,
गतिः प्राणिनां पावनं पावनानाम् ।
महोच्चैः पदानां नियन्तृ त्वमेकं,
परेषां परं रक्षणं रक्षणानाम् ।।
वयं त्वां स्मरामो वयं त्वां भजामो,
वयं त्वां जगत्साक्षीरूपं नमामः ।
सदेकं निधानं निरालम्बमीशं,
भवाम्बोधिपोतं शरण्यं व्रजामः ।।










