हे विभो आनन्द सिन्धो !

0
186

हे विभो आनन्द सिन्धो !

हे विभो आनन्द सिन्धो !
मे च मेधा दीयताम्।
यच्च दुरितं दीनबन्धो !
तच्च दूरं नीयताम् ।। टेक ।।
चंचलानि वेन्द्रियाणि,
मानसं मे पूयताम् ।


शरणं याचे तावकोऽहं,
सेवकोऽनुगृहयताम् ।।१।।
हे. त्वयि च वीर्य वियते यत्,
तच्च मयि निधीयताम्।
या च दुर्गण दीनता मयि,
सा तु शीघ्रं क्षीयताम् ।।२।।हे..

शौर्य-धैर्य तैजसं च,
भारते चेक्रीयताम्।
हे दयामय ! अयि अनादे !
प्रार्थना मम श्रूयताम् ।।३।।हे..