पितः पातु विमलां तां आर्षलताम्
पितः पातु
पितः पातु विमलां तां आर्षलताम्१.पाणिनी मुनिना व्याकृतिखनिनाअतिमतिधनिना हि पतञ्जलिनामेधयाऽमलया विहितातिसेवाम्
२.व्याकरणारुणैर्भूतपोहरणैःविरजानन्दचरणैरार्षत्वभरणैःभुवि भूयो भूषितां सुहितां नितराम्
३.देवदयानन्दैरानन्दकन्दैःवेदविद्यावन्द्यैस्तद्रसस्यन्दैःलालितां पालितां तामतिसुफलाम्
