सादरं समीयतां वन्दना विधीयताम् ।

0
28

सादरं समीयतां वन्दना विधीयताम् ।

६६.

सादरं समीयतां
वन्दना विधीयताम् ।
श्रद्धया स्वमातृभूसमर्चना
विधीयताम् ।।


आपदो भवन्तु वा,
विद्युतो लसन्तु वा ।
आयुधानि भूरिशोऽपि,
मस्तके पतन्तु वा ।।


धीरता न हीयतां
वीरता विधीयताम् ।
निर्भयेन चेतसा पदं
पुरो विधीयताम् ।। १ ।।

प्राणदायिनी इयम्,
त्राणदायिनी इयम् ।
शक्ति भक्ति मुक्तिदा,
सुधाऽनपायिनी इयम् ।।


एतदीय वन्दने सेवने
ऽभिनन्दने साभिमानमात्मनो
जीवनं प्रदीयताम् ।।२।।