पठामि संस्कृतं नित्यम्,

0
94

पठामि संस्कृतं नित्यम्

पठामि संस्कृतं नित्यम्,
लिखामि संस्कृतं सदा।
वदामि संस्कृतं नित्यम्,
वन्दे संस्कृतमातरम् ।। १ ।।

शृणोमि संस्कृतं नित्यम्,
ध्यायामि संस्कृतं सदा।
जानामि संस्कृतं नित्यम्,
वन्दे संस्कृत मातरम् ।। २ ।।

संस्कृतस्य प्रतिष्ठायां।
नैजं सर्वं ददाम्यहम्।
संस्कृतस्य प्रसादाय।
वन्दे संस्कृतमातरम् ।।३।।

संस्कृतस्य कृते जीवन्।
संस्कृतस्य कृते यजन् ।
संस्कृते मे सदा भक्तिः।
वन्दे संस्कृत मातरम् ।।४।।

संस्कृतस्य प्रचाराय।
सर्वत्र प्रसराय च।
आत्मानमाहुतं मन्ये।
वन्दे संस्कृत मातरम् ।।५।।

शरीरे सबलता (शरीर में बल हो)
मनसि विमलता (पवित्र मन हो)
जीवने सरलता (जीवन सरल हो)

संस्कृताधीतिनः सन्तु सर्वेभारतभूमिजाः,
संस्कृते नैव कुर्वन्तु व्यवहारं परस्परं ।
संस्कृतज्ञानमासाद्य संस्कृताचार वृत्तयः,
सर्वतः संस्कृतिभूया सुखिनः सन्तु सर्वतः ।।
भारते भातु भारती