हे विभो आनन्द सिन्धोमे च मेधा दीयताम्।
हे विभो आनन्दसिन्धो
मे च मेधा दीयताम्।
यच्च दुरितं दीनबन्धो
तच्च दूरं नीयताम्।। टेक।।
चंचलानि चेन्द्रियाणि
मानसं मे पूयताम्।
शरणं याचे तावकोऽहं
सेवकोऽनुगृह्यताम्।। 1।।
त्वयि च वीर्यं विद्यते यत्
तच्च मयि निधीयताम्।
या च दुर्गुण दीनता मयि
सा तु शीघ्रं क्षीयताम्।। 2।।
शौर्यं धैर्यं तैजसं च
भारते चेक्रियताम्।
हे दयामय अयि अनादे
प्रार्थना मम श्रूयताम्।। 3।।










