भगवन् त्वदीय भक्तिं स्वान्ते सदा भरेयम्।

0
45

भगवन् त्वदीय भक्तिं स्वान्ते सदा भरेयम्।

भगवन् त्वदीय भक्तिं स्वान्ते सदा भरेयम्।
वेदोक्तधर्मकार्यं नक्तन्दिनं विधेयम् ।।

संगः सदा सुधीनां सरणी च सानानाम् ।
सद्भावनाश्रितोऽहं पापात् सदा विभेयम् ।।

रोगादहन्ति देहं प्रबलाः शरीरमध्ये ।
ब्रह्मचर्यमौषधं च पेयं सदा वरेण्यम् ।।

बालैरमूल्यवेला खेलासु नापनेया।
ज्ञानं सदाऽर्जयेयं धर्मं सदा चरेयम् ।।