पहले जल आदि से शरीर की शुद्धि करें फिर राग-द्वेष आदि के त्याग से भीतर की शुद्धि करनी चाहिए।फिर कम से कम तीन बार प्राणायाम करें।
!!गायत्री मंत्र!!
ओ३म् भूर्भुवः स्वः। तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि। धियो यो नः प्रचोदयात्॥ यजु. ३६।३
!!अथ आचमन मंत्र!!
ओं शन्नो देवीरभिष्टय आपोऽ भवन्तु पीतये । शंयोरभि स्रवन्तु नः॥ यजु०३६।१२
!!अथ इन्द्रिय स्पर्श मंत्र!!
ओं वाक् वाक्।ओं प्राणः प्राणःओं चक्षुश्चक्षुः iओं श्रोत्रं श्रोत्रम्ओंi नाभिः।ओं हृदयम् iओं कण्ठः। ओं शिरः।ओं बाहुभ्यां यशो बलम्।ओं करतलकरपृष्ठे।
!!अथ ईश्वर प्रार्थना पूर्वकम् आर्जन मंत्र!!
ओं भूः पुनातु शिरसि i
ओं भुवः पुनातु नेत्रयोःi
ओं स्वः पुनातु कण्ठे।
ओं महः पुनातु हृदये।
ओं जनः पुनातु नाभ्याम्।
ओं तपः पुनातु पादयोः।
ओं सत्यं पुनातु पुनः शिरसि ।
ओं खं ब्रह्म पुनातु सर्वत्र।!! अथ प्राणायाममन्त्राः !!
ओं भूः। ओं भुवः। ओं स्वः। ओं महः।ओं जनः। ओं तपः। ओं सत्यम्।
!!अथाघमर्षणमन्त्राः!!
ओं ऋतं च सत्यं चाभीद्धात्तपसोऽध्यजायत। ततो रात्र्यजायत ततः समुद्रो अर्णवः ॥१॥
समुद्रादर्णवादधि संवत्सरो अजायत। अहोरात्राणि विदधद् विश्वस्य मिषतो वशी॥२॥
सूर्या चन्द्रमसौ धाता यथापूर्वमकल्पयत्। दिवं च पृथिवीं चांतरिक्षमथो स्वः ॥३॥
!!अथ आचमन मंत्र!!
ओं शन्नो देवीरभिष्टय आपोऽ भवन्तु पीतये। शंयोरभि स्रवन्तु नः॥
!! अथ मनसापरिक्रमा मन्त्राः !!
ओं प्राची दिगग्निरधिपतिरसितो रक्षितादित्या इषवः। तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नमः इषुभ्यो नमः एभ्यो अस्तु। यो३स्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥१॥
दक्षिणा दिगिन्द्रोऽधिपतिस्तिरश्चिराजी रक्षिता पितर इषवः।
तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नमः इषुभ्यो नमः एभ्यो अस्तु। यो३स्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥२॥प्रतीची दिग्वरुणोऽधिपतिः पृदाकू रक्षितान्नमिषवः ।तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नमः इषुभ्यो नमः एभ्यो अस्तु। यो३स्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥३॥
उदीची दिक् सोमोऽधिपतिःस्वजो रक्षिताशनिरिषवः।
तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नमः इषुभ्यो नमः एभ्यो अस्तु। यो३स्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥४॥ध्रुवा दिग्विष्णुरधिपतिः कल्माषग्रीवो रक्षिता वीरुध इषवः ।
तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नमः इषुभ्यो नमः एभ्यो अस्तु। यो३स्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥ ५॥ऊर्ध्वा दिग् बृहस्पतिरधिपतिः श्वित्रो रक्षिता वर्षमिषवः।
तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नमः इषुभ्यो नमः एभ्यो अस्तु। यो३स्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥ ६॥
अथर्व. ३।२७।१-६!!अथोपस्थानमन्त्राः!!
ओं उद् वयं तमसस्परि स्वः पश्यन्त उत्तरम्। देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥१॥
उदु त्यं जातवेदसं देवं वहन्ति केतवः। दृशे विश्वाय सूर्यम् ॥२॥
चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च स्वाहा ॥३॥तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत्।
पश्येम शरदः शतं जीवेम शरदःशतं श्रृणुयाम शरदः शतं प्रब्रवाम शरदः शतमदीनाः स्याम शरदः शतं भूयश्च शरदः शतात् ॥४॥!!गायत्री मंत्र!!
ओ३म् भूर्भुवः स्वः। तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि। धियो यो नः प्रचोदयात्॥ यजु. ३६।३
!! अथ समर्पणम् !!
हे ईश्वर दयानिधे ! भवत्कृपयानेन जपोपासनादिकर्मणा धर्मार्थकाममोक्षाणां सद्यः सिद्धिर्भवेन्नः ॥
!!ईश्वर को नमस्कार !!
ओं नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥
NOTE- सन्ध्या प्रत्येक सनातन धर्मी को ब्रह्म मुहूर्त और सायं कालीन दोनों समय चाहिए।ये ही परमात्मा की उपासना करने का तरीका है .










