पाणिनि महाविद्यालय रेवली
(रामलाल कपूर ट्रस्ट द्वारा सञ्चालित)
तस्य वार्षिकोत्सवः
भवतां समेषां कृते अतीव प्रमोदविषयोऽयं यत् भवतां सहयोगेन स्वास्तित्वस्य १०६ तमे वर्षे प्रविष्टाया अस्माकं प्रियायाः संस्थायाः ‘पाणिनि महाविद्यालय’ (रेवली, स्वर्णप्रस्था, हरयाणा) इत्याख्याया वार्षिकोत्सव आर्यसमाजस्य सार्द्ध-शताब्दी-महोत्सवस्य तथा च अमरहुतात्मनः स्वामि श्रद्धानन्द सरस्वती-महोदयस्य बलिदान-शताब्द्याः पावनावसरे चैत्र-कृष्णपक्ष-पञ्चम्यां, वि.सं. २०८३ तदनुसारं दिनाङ्क ८ मार्च २०२६ रविवासरे हर्षपूरिते प्रेरणाप्रदवातावरणे च मन्यते।
वैदिक-आर्ष-संस्कृतेः संरक्षणे संवर्धने च समर्पिताः स्नातक-सम्मान परम्परायाम् ऐषम आचार्य-हरिप्रसाद-महोदयाः (तेलङ्गाना) समादरिष्यन्ते। ऐषमश्वर्चनीयो विषयः खलु ‘वैश्विक अशान्तेः निदाने समाधाने च आर्यसमाजस्य भूमिका’। अस्मिन् अवसरे अनेके लब्धप्रतिष्ठाः विद्वांस आगमिष्यन्ति। अतो भवन्तः सर्वे यथाकालं समुपस्थाय विदुषां प्रवचनैरुपदेशैश्च लाभान्विता भवन्तु, कार्यक्रमस्य शोभां च वर्धयन्तु।
कार्यक्रम-सूची
(८ मार्च २०२६, रविवासरे)
- 🔥 यज्ञः — प्रातः ७:३०
- 🎙 प्रवचनम् — प्रातः ८:००
- ☕ प्रातराशः (अल्पाहारः) — प्रातः ९:००
- 🎶 भजनम्, प्रवचनम्, ग्रन्थ-विमोचनम्, सम्मानम् च — पूर्वाह्न ९:३०
- 🍽 सहभोजः — अपराह्न १:३०
मुख्यवक्ता
डॉ. सत्यपाल सिंह
(भूतपूर्व पुलिस आयुक्त, मुम्बई एवं भूतपूर्व सांसद, बागपत, उ.प्र.)
आमन्त्रित विद्वांसः
- आचार्याः सुद्युम्नवर्याः (सतना, म०प्र०),
- आचार्याः प्रशस्यमित्रवर्याः (रायबरेली, उ०प्र०),
- डॉ. रामप्रकाश-वर्णिवर्याः (हरिद्वारम्),
- प्रो. नरेश कुमार-धीमान्वर्याः (अजयमेरुः),
- आचार्याः सोमदेववर्याः (चित्तौड़गढ़, राज०),
- डॉ. भीमसिंहवर्याः (कुरुक्षेत्रम्),
- न्यायमूर्ति-प्रीतमपाल सिंहवर्याः (भूतपूर्वी लोकायुक्तो हरयाणा),
- डॉ. प्रमोद कुमार-सिंहवर्याः (मैत्रेयी-महाविद्यालयो देहली) इत्यादयः।
सम्पर्क-सूत्रम्
📱 7082119460
📱 7082919456
🎶🎵मधुर भजन सुनने के लिए यहाँ क्लिक करे 👇🎵🎶
























