भज मन ! ओम् सच्चिदानन्दम्

0
6

भज मन ! ओम् सच्चिदानन्दम्

भज मन ! ओम् सच्चिदानन्दम्
अतुलं सत्यं शिवं सुन्दरम् ॥

शुद्धं शाश्वतमजमविकारम्,
अद्वितीयमनुमेयमकायम् ।
निर्माता, धाता, हर्ता च,
नास्ति च दाता येन समस्तम् ॥

भज मन ! ओम् सच्चिदानन्दम् ।
यथा व्योम्नि विशदे किल वायुः,
वह्निर्जाते जाते प्रकटः ।
दध्नि च सर्पिः रस इक्षौ च,
तथा सर्वगः रक्षति लोकम् ॥

भज मन ! ओम् सच्चिदानन्दम् ।
चरण-विहीनश्चलति चतुर्दिशि,
पाणिविहीनः कुशलः कर्मणि।
विना नेत्रमनुपश्यति सर्वम्,
अश्रवणोऽपि शृणोति च शब्दम् ॥

भज मन ! ओम् सच्चिदानन्दम् ।
एको यः समुपास्यो देवः,
स्मृतः सदा ऋषि-नर-मुनि-देवैः ।
विषं ‘प्रकाश’ विषयजं त्यक्त्वा,
पिब परमेश-प्रेम-पीयूषम् ॥
भज मन ! ओम् सच्चिदानन्दम् ।