भगवन् त्वदीय भक्तिं,स्वान्ते सदा भरेयम्।

0
8

भगवन् त्वदीय भक्तिं,स्वान्ते सदा भरेयम्।

भगवन् त्वदीय भक्तिं,
स्वान्ते सदा भरेयम्।
वेदोक्त धर्मकार्यं
नक्तन्दिनं विधेयम् ।।१।।

सङ्गः सदा सुधिनां,
सरणी च सज्जनानाम् ।
सद्भावनाश्रितोऽहं,
पापात् सदा बिभेयम् ।।२।।

रोगा दहन्ति देहं,
प्रबलाः शरीरमध्ये ।
ब्रह्मचर्यमौषधं च,
पेयं सदा वरेण्यम् ।।३।।

बालैरमूल्यवेला,
खेलासु नापनेया ।
ज्ञानं मतौ धरेयं,
धर्म सदा चरेयम् ।।४।।